हिन्दू धर्म में 33 करोड़ देवी देवताओं का पूजन किया जाता है। सभी देवी देवताओं की उपासना की पृथक विधि तथा उपासना मंत्र तथा पाठ, स्त्रोत हैं। भगवान विष्णु इस चराचर जगत के कर्ता है। सृष्टि कर्ता स्वामी हरी अपने भक्तों की हर विपदा का निवारण करते हैं।
सच्ची श्रद्धा तथा भक्ति से भगवान विष्णु जी की जो भी आराधना करता है उसका जीवन समस्त कष्टों से मुक्त हो जाता है। भगवान विष्णु ने राक्षसों के वध के लिए कई अवतार लिए, जिसमें एक रहा वराह अवतार। भगवान विष्णु द्वारा यह अवतार राक्षस के वध हेतु लिया गया था।
भगवान विष्णु के वराह अवतार का बखान करने के लिए वराहकवचम पाठ का सूक्त शामिल किया गया है। श्री हरि को समर्पित इस श्री वराहकवचम् में विष्णु जी के ही वराह अवतार का वर्णन मिलता है। श्री विष्णु जी ने पृथ्वी की रक्षा के लिए इस वराह अवतार को धारण किया था। धरती की सुरक्षा के लिए विष्णुजी द्वारा लिया गया यह वराह अवतार श्री विष्णु जी का एक अद्भुत अवतार रहा है। जिसका गुणगान करने से भक्तों को श्री हरि की असीम कृपा प्राप्त होती है।
आज हम अपने इस लेख के माध्यम से श्री विष्णु जी को समर्पित श्री वराहकवचम् का पाठ विस्तार सहित लेकर आएं हैं। आइए जानते हैं श्री वराहकवचम् का संपूर्ण पाठ..

विषय सूची
।। श्रीवराहकवचम् ।।
आद्यं रङ्गमिति प्रोक्तं विमानं रङ्गसंज्ञितम् ।
श्रीमुष्णं वेङ्कटाद्रिं च साळग्रामं च नैमिशम् ॥ तोयाद्रिं पुष्करं चैव नरनारायणाश्रमम् ।
अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥
श्रीसूत
श्रीरुद्रमुखनिर्णीतमुरारिगुणसत्कथा ।
सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् ॥ १॥
श्रीपार्वत्युवाच
श्रीमुष्णेशस्य माहात्म्यं वराहस्य महात्मनः ।
श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते ।
श्रोतुं तद्देवमाहात्म्यं तस्माद्वर्णय मे पुनः ॥ २॥
श्रीशङ्कर उवाच
शृणु देवि प्रवक्ष्यामि श्रीमुष्णेशस्य वैभवम् ।
यस्य श्रवणमात्रेण महापापैः प्रमुच्यते ।
सर्वेषामेव तीर्थानां तीर्थराजोऽभिधीयते ॥ ३॥
नित्यपुष्करिणी नाम्नी श्रीमुष्णे या च वर्तते ।
जाता श्रमापहा पुण्या वराहश्रमवारिणा ॥ ४॥
विष्णोरङ्गुष्ठसंस्पर्शात्पुण्यदा खलु जाह्नवी । विष्णोः सर्वाङ्गसम्भूता नित्यपुष्करिणी शुभा ॥ ५॥
महानदीसहस्त्रेण नित्यदा सङ्गता शुभा । सकृत्स्नात्वा विमुक्ताघः सद्यो याति हरेः पदम् ॥ ६॥
तस्या आग्नेयभागे तु अश्वत्थच्छाययोदके ।
स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् ॥७॥
दृष्ट्वा श्वेतवराहं च मासमेकं नयेद्यदि ।
कालमृत्युं विनिर्जित्य श्रिया परमया युतः ॥ ८॥
आधिव्याधिविनिर्मुक्तो ग्रहपीडाविवर्जितः
भुक्त्वा भोगाननेकांश्च मोक्षमन्ते व्रजेद्ध्रुवम् ॥ ९॥
अश्वत्थमूलेऽर्कवारे नित्यपुष्करिणीतटे।
वराहकवचं जप्त्वा शतवारं जितेन्द्रियः ॥ १०॥
क्षयापस्मारकुष्ठाद्यैः महारोगैः प्रमुच्यते ।
वराहकवचं यस्तु प्रत्यहं पठते यदि ॥ ११॥
शत्रुपीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् ।
लिखित्वा धारयेद्यस्तु बाहुमूले गलेऽथ वा ॥ १२॥
भूतप्रेतपिशाचाद्याः यक्षगन्धर्वराक्षसाः ।
शत्रवो घोरकर्माणो ये चान्ये विषजन्तवः ।
नष्टदर्पा विनश्यन्ति विद्रवन्ति दिशो दश ॥ १३॥
श्रीपार्वत्युवाच
तद्ब्रूहि कवचं मह्यं येन गुप्तो जगत्त्रये । सञ्चरेद्देववन्मर्त्यः सर्वशत्रुविभीषणः ।
येनाप्नोति च साम्राज्यं तन्मे ब्रूहि सदाशिव ॥ १४॥
श्रीशङ्कर उवाच
शृणु कल्याणि वक्ष्यामि वाराहकवचं शुभम्।
येन गुप्तो लभेन्मर्त्यो विजयं सर्वसम्पदम् ॥ १५॥
अङ्गरक्षाकरं पुण्यं महापातकनाशनम् । सर्वरोगप्रशमनं सर्वदुर्ग्रहनाशनम् ॥ १६॥
विषाभिचारकृत्यादि शत्रुपीडानिवारणम् ।
नोक्तं कस्यापि पूर्वं हि गोप्याद्गोप्यतरं यतः ॥ १७॥
वराहेण पुरा प्रोक्तं मह्यं च परमेष्ठिने ।
युद्धेषु जयदं देवि शत्रुपीडानिवारणम् ॥ १८॥
वराहकवचाद्गुप्तो नाशुभं लभते नरः । वराहकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ १९॥
छन्दोऽनुष्टुप् तथा देवो वराहो भूपरिग्रहः ।
प्रक्षाल्य पादौ पाणी च सम्यगाचम्य वारिणा ॥ २०॥
कृतस्वाङ्गकरन्यासः सपवित्र उदङ्मुखः
ओं भूर्भुवःसुवरिति नमो भूपतयेऽपि च ॥ २१॥
नमो भगवते पश्चाद्वराहाय नमस्तथा ।
एवं षडङ्गं न्यासं च न्यसेदङ्गुलिषु क्रमात् ॥ २२॥
नमः श्वेतवराहाय महाकोलाय भूपते ।
यज्ञाङ्गाय शुभाङ्गाय सर्वज्ञाय परात्मने ॥ २३॥
स्रवतुण्डाय धीराय परब्रह्मस्वरूपिणे ।
वक्रदंष्ट्राय नित्याय नमोऽन्तैर्नामभिः क्रमात् ॥ २४॥
अङ्गुलीषु न्यसेद्विद्वान् करपृष्ठतलेष्वपि ।
ध्यात्वा श्वेतवराहं च पश्चान्मन्त्रमुदीरयेत् ॥ २५॥
ॐ श्वेतं वराहवपुषं क्षितिमुद्धरन्तं शङ्खारिसर्ववरदाभययुक्तबाहुम् ।
ध्यायेन्निजैश्च तनुभिः सकलैरुपेतं पूर्णं विभुं सकलवाञ्छितसिद्धयेऽजम् ॥ २६॥
वराहः पूर्वतः पातु दक्षिणे दण्डकान्तकः । हिरण्याक्षहरः पातु पश्चिमे गदया युतः ॥ २७॥
उत्तरे भूमिहृत्पातु अधस्ताद्वायु वाहनः ।
ऊर्ध्वं पातु हृषीकेशो दिग्विदिक्षु गदाधरः ॥ २८॥
प्रातः पातु प्रजानाथः कल्पकृत्सङ्गमेऽवतु ।
मध्याह्ने वज्रकेशस्तु सायाह्ने सर्वपूजितः ॥ २९॥
प्रदोषे पातु पद्माक्षो रात्रौ राजीवलोचनः । निशीन्द्रगर्वहा पातु पातूषः परमेश्वरः ॥ ३०॥
अटव्यामग्रजः पातु गमने गरुडासनः ।
स्थले पातु महातेजाः जले पात्ववनीपतिः ॥ ३१॥
गृहे पातु गृहाध्यक्षः पद्मनाभः पुरोऽवतु । झिल्लिकावरदः पातु स्वग्रामे करुणाकरः ॥ ३२॥
रणाग्रे दैत्यहा पातु विषमे पातु चक्रभृत् ।
रोगेषु वैद्यराजस्तु कोलो व्याधिषु रक्षतु ॥ ३३॥
तापत्रयात्तपोमूर्तिः कर्मपाशाच्च विश्वकृत् । क्लेशकालेषु सर्वेषु पातु पद्मापतिर्विभुः ॥ ३४॥
हिरण्यगर्भसंस्तुत्यः पादौ पातु निरन्तरम् ।
गुल्फौ गुणाकरः पातु जङ्घे पातु जनार्दनः ॥ ३५॥
जानू च जयकृत्पातु पातूरू पुरुषोत्तमः ।
रक्ताक्षो जघने पातु कटिं विश्वम्भरोऽवतु ॥ ३६॥
पार्श्वे पातु सुराध्यक्षः पातु कुक्षिं परात्परः ।
नाभिं ब्रह्मपिता पातु हृदयं हृदयेश्वरः ॥ ३७॥
महादंष्ट्रः स्तनौ पातु कण्ठं पातु विमुक्तिदः । प्रभञ्जनपतिर्बाहू करौ कामपिताऽवतु ॥ ३८॥
हस्तौ हंसपतिः पातु पातु सर्वाङ्गुलीर्हरिः । सर्वाङ्गश्चिबुकं पातु पात्वोष्ठौ कालनेमिहा ॥ ३९॥
मुखं तु मधुहा पातु दन्तान् दामोदरोऽवतु । नासिकामव्ययः पातु नेत्रे सूर्येन्दुलोचनः ॥ ४०॥
फालं कर्मफलाध्यक्षः पातु कर्णौ महारथः । शेषशायी शिरः पातु केशान् पातु निरामयः ॥ ४१॥
सर्वाङ्गं पातु सर्वेशः सदा पातु सतीश्वरः ।
इतीदं कवचं पुण्यं वराहस्य महात्मनः ॥ ४२॥
यः पठेच्छृणुयाद्वापि तस्य मृत्युर्विनश्यति ।
तं नमस्यन्ति भूतानि भीताः साञ्जलिपाणयः। ४३॥
राजदस्युभयं नास्ति राज्यभ्रंशो न जायते । यन्नामस्मरणाद्भीताः भूतवेताळराक्षसाः ॥ ४४॥
महारोगाश्च नश्यन्ति सत्यं सत्यं वदाम्यहम् ।
कण्ठे तु कवचं बद्ध्वा वन्ध्या पुत्रवती भवेत् ॥ ४५॥
शत्रुसैन्यक्षयप्राप्तिः दुःखप्रशमनं तथा । उत्पातदुर्निमित्तादि सूचितारिष्टनाशनम् ॥ ४६॥
ब्रह्मविद्याप्रबोधं च लभते नात्र संशयः ।
धृत्वेदं कवचं पुण्यं मान्धाता परवीरहा ॥ ४७॥
जित्वा तु शाम्बरीं मायां दैत्येन्द्रानवधीत्क्षणात् । कवचेनावृतो भूत्वा देवेन्द्रोऽपि सुरारिहा ॥ ४८॥
भूम्योपदिष्टकवचधारणान्नरकोऽपि च ।
सर्वावध्यो जयी भूत्वा महतीं कीर्तिमाप्तवान् ॥४९॥
अश्वत्थमूलेऽर्कवारे नित्यपुष्करिणीतटे ।
वराहकवचं जप्त्वा शतवारं पठेद्यदि ॥ ५०॥
अपूर्वराज्यसंप्राप्तिं नष्टस्य पुनरागमम् ।
लभते नात्र सन्देहः सत्यमेतन्मयोदितम् ॥ ५१॥
जप्त्वा वराहमन्त्रं तु लक्षमेकं निरन्तरम् ।
दशांशं तर्पणं होमं पायसेन घृतेन च ॥ ५२॥
कुर्वन् त्रिकालसन्ध्यासु कवचेनावृतो यदि । भूमण्डलाधिपत्यं च लभते नात्र संशयः ॥ ५३॥
इदमुक्तं मया देवि गोपनीयं दुरात्मनाम् ।
वराहकवचं पुण्यं संसारार्णवतारकम् ॥ ५४॥
महापातककोटिघ्नं भुक्तिमुक्तिफलप्रदम् ।
वाच्यं पुत्राय शिष्याय सद्वृत्ताय सुधीमते ॥ ५५॥
श्रीसूतः इति पत्युर्वचः श्रुत्वा देवी सन्तुष्टमानसा । विनायकगुहौ पुत्रौ प्रपेदे द्वौ सुरार्चितौ ।
कवचस्य प्रभावेन लोकमाता च पार्वती ॥ ५६॥
य इदं शृणुयान्नित्यं यो वा पठति नित्यशः ।
स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ॥ ५७॥
।। इति श्रीवराहकवचं सम्पूर्णम् ।।
उम्मीद करते हैं कि आपको उपरोक्त लेख के माध्यम से बताया गया श्री वराह कवच का पाठ उपयोगी सिद्ध हुआ होगा। इसी प्रकार के अन्य धार्मिक लेखों की जानकारी प्राप्त करने के लिए हमारे पेज पर विजिट करते रहें।
Featured image: haribhoomi
